हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Vishnu Divya Sthala Stotram – श्री विष्णोर्दिव्यस्थल स्तोत्रम्
अर्जुन उवाच ।
भगवन्सर्वभूतात्मन् सर्वभूतेषु वै भवान् ।
परमात्मस्वरूपेण स्थितं वेद्मि तदव्ययम् ॥ १
क्षेत्रेषु येषु येषु त्वं चिन्तनीयो मयाच्युत ।
चेतसः प्रणिधानार्थं तन्ममाख्यातुमर्हसि ॥ २
यत्र यत्र च यन्नाम प्रीतये भवतः स्तुतौ ।
प्रसादसुमुखो नाथ तन्ममाशेषतो वद ॥ ३
श्रीभगवानुवाच ।
सर्वगः सर्वभूतोऽहं न हि किञ्चिद्मया विना ।
चराचरे जगत्यस्मिन् विद्यते कुरुसत्तम ॥ ४
तथापि येषु स्थानेषु चिन्तनीयोऽहमर्जुन ।
स्तोतव्यो नामभिर्यैस्तु श्रूयतां तद्वदामि ते ॥ ५
पुष्करे पुण्डरीकाक्षं गयायां च गदाधरम् ।
लोहदण्डे तथा विष्णुं स्तुवंस्तरति दुष्कृतम् ॥ ६
राघवं चित्रकूटे तु प्रभासे दैत्यसूदनम् ।
वृन्दावने च गोविन्दं मा स्तुवन् पुण्यभाग्भवेत् ॥ ७
जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे ।
वराहं कर्दमाले तु काश्मीरे चक्रपाणिनम् ॥ ८
जनार्दनं च कुब्जाम्रे मथुरायां च केशवम् ।
कुब्जके श्रीधरं तद्वद्गङ्गाद्वारे सुरोत्तमम् ॥ ९
शालग्रामे महायोगिं हरिं गोवर्धनाचले ।
पिण्डारके चतुर्बाहुं शङ्खोद्धारे च शङ्खिनम् ॥ १०
वामनं च कुरुक्षेत्रे यमुनायां त्रिविक्रमम् ।
विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे ॥ ११
श्वेतद्वीपपतिं चापि गङ्गासागरसङ्गमे ।
भूधरं देविकानद्यां प्रयागे चैव माधवम् ॥ १२
नरनारायणाख्यं च तथा बदरिकाश्रमे ।
समुद्रे दक्षिणे स्तव्यं पद्मनाभेति फाल्गुन ॥ १३
द्वारकायां तथा कृष्णं स्तुवंस्तरति दुर्गतिम् ।
रामनाथं महेन्द्राद्रौ हृषीकेशं तथार्बुदे ॥ १४
अश्वतीर्थे हयग्रीवं विश्वरूपं हिमाचले ।
नृसिंहं कृतशौचे तु विपाशायां द्विजप्रियम् ॥ १५
नैमिषे यज्ञपुरुषं जम्बूमार्गे तथाच्युतम् ।
अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् ॥ १६
उत्पलावर्तके शौरिं नर्मदायां श्रियः पतिम् ।
दामोदरं रैवतके नन्दायां जलशायिनम् ॥ १७
सर्वयोगेश्वरं चैव सिन्धुसागरसङ्गमे ।
सह्याद्रौ देवदेवेशं वैकुण्ठं माधवे वने ॥ १८ [*मागधे*]
सर्वपापहरं विन्ध्ये चोड्रेषु पुरुषोत्तमम् ।
हृदये चापि कौन्तेय परमात्मानमात्मनः ॥ १९
वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् ।
पर्वते पर्वते रामं सर्वत्र मधुसूदनम् ॥ २०
नरं भूमौ तथा व्योम्नि कौन्तेय गरुडध्वजम् ।
वासुदेवं च सर्वत्र संस्मरेज्ज्योतिषांपतिम् ॥ २१
अर्चयन् प्रणमन् स्तुन्वन् संस्मरंश्च धनञ्जय ।
एतेष्वेतानि नामानि नरः पापात्प्रमुच्यते ॥ २२
स्थानेष्वेतेषु मन्नाम्नामेतेषां प्रीणयेन्नरः ।
द्विजानां प्रीणनं कृत्वा स्वर्गलोके महीयते ॥ २३
नामान्येतानि कौन्तेय स्थानान्येतानि चात्मवान् ।
जपन्वै पञ्च पञ्चाशत्त्रिसन्ध्यं मत्परायणः ॥ २४
त्रीणि जन्मानि यत्पापं चावस्थात्रितये कृतम् ।
तत्क्षालयत्यसन्दिग्धं जायते च सतां कुले ॥ २५
द्विकालं वा जपन्नेव दिवारात्रौ च यत्कृतम् ।
तस्माद्विमुच्यते पापात् सद्भावपरमो नरः ॥ २६
जप्तान्येतानि कौन्तेय सकृच्छ्रद्धासमन्वितम् ।
मोचयन्ति नरं पापाद्यत्तत्रैव दिने कृतम् ॥ २७
धन्यं यशस्यं आयुष्यं जयं कुरु कुलोद्वह ।
ग्रहानुकूलतां चैव करोत्याशु न संशयः ॥ २८
उपोषितो मत्परमः स्थानेष्वेतेषु मानवः ।
कृतायतनवासश्च प्राप्नोत्यभिमतं फलम् ॥ २९
उत्क्रान्तिरप्यशेषेषु स्थानेष्वेतेषु शस्यते ।
अन्यस्थानाच्छतगुणमेतेष्वनशनादिकम् ॥ ३०
यस्तु मत्परमः कालं करोत्येतेषु मानवः ।
देवानामपि पूज्योऽसौ मम लोके महीयते ॥ ३१
स्थानेष्वथैतेषु च ये वसन्ति
सम्पूजयन्ते मम सर्वकालम् ।
तदेह चान्ते त्रिदिवं प्रयान्ति
नाकं च लोकं समवाप्नुवन्ति ॥ ३२
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अर्जुनं प्रति कृष्णोपदेशे स्थानविशेषकीर्तनमाहात्म्यवर्णनो नाम पञ्चविंशत्युत्तरशततमोऽध्यायः ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.